न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥
न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः । किं ते न विदुः ? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम् , अथवा प्रभवं प्रभवनम् उत्पत्तिम् । नापि महर्षयः भृग्वादयः विदुः । कस्मात् ते न विदुरित्युच्यते — अहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥ २ ॥