श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो मामजमनादिं वेत्ति लोकमहेश्वरम्
असंमूढः मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥
यः माम् अजम् अनादिं , यस्मात् अहम् आदिः देवानां महर्षीणां , मम अन्यः आदिः विद्यते ; अतः अहम् अजः अनादिश्च ; अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं यः वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मर्त्येषु मनुष्येषु, सर्वपापैः सर्वैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते ॥ ३ ॥

कोऽसौ प्रभावः भगवतः ? यं बहवो न विदुः, इत्यपेक्षायां पारमार्थिकं प्रभावं तदधीनफलं च कथयति -

यो मामिति ।

पदद्वयापौनरुक्त्यम् आह -

अनादित्वमिति

॥ ३ ॥