श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिःमत्तः एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्ततेइति एवं मत्वा भजन्ते सेवंते मां बुधाः अवगतपरमार्थतत्त्वाः, भावसमन्विताः भावः भावना परमार्थतत्त्वाभिनिवेशः तेन समन्विताः संयुक्ताः इत्यर्थः ॥ ८ ॥

प्रभवति अस्मात् , इति प्रभवः सर्वप्रकृतिः सर्वात्मा, इत्याह -

उत्पत्तिरिति ।

सर्वज्ञात् सर्वेश्वरात् मत्तो निमित्तात् , सर्वम् - स्थितिनाशादि भवति ।

मया च अन्तर्यामिना प्रेर्यमाणं सर्वं यथास्वं मर्यादाम् अनतिक्रम्य चेष्टते । तदाह -

मत्त इति ।

इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्ति, इत्याह -

इत्येवमिति ।

संसारासारताज्ञानवतां भगवद्भजने अधिकारं द्योतयति -

अवगतेति ।

परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरौ अभिनिवेशाख्यौ भवतः ।

तेन संयुक्तत्वं च भगवद्भजने भवति हेतुः, इत्याह -

भावेति

॥ ८ ॥