पुत्रादिलोकत्रयहेत्वर्थित्वेन वा गर्भदासत्वेन वा, प्रत्यहं जीवनोपायसिद्धये वा, भजनम् इति शङ्कित्वा दूषयति -
किमित्यादिना ।
प्रागुक्तां ज्ञानाख्यां भक्तिं स्नेहेन कुर्वताम् इत्यर्थः ।
तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामि, इत्याह -
ददामीति ।
उक्तबुद्धिसबन्धस्य फलम् आह -
येनेति ।
ध्यानजन्यप्रकर्षकाष्ठागतान्तःकरणपरिणामे निरस्ताशेपविशेषभगवद्रूपप्राप्तिहेतौ बुद्धियोगे प्रश्नपूर्वकम् उक्तान् अधिकारिणो दर्शयति -
के ते इति ॥ १० ॥