श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किमर्थम् , कस्य वा, त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि इत्यपेक्षायामाह
किमर्थम् , कस्य वा, त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि इत्यपेक्षायामाह

भगवत्प्राप्तेः बुद्धिसाध्यत्वे सति अनित्यत्वापत्तेः त्वमपि भक्तेभ्यः बुद्धियोगं ददासि इत्ययुक्तम् , इति शङ्कते -

किमर्थमिति ।

तेषां बुद्धियोगं किमर्थं ददासि इति सम्बन्धः ।

 भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगः, तेन नास्ति तत्प्राप्तेः अनित्यत्वम् , इत्याशङ्क्य आह -

कस्येति ।

भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति -

इत्याकाङ्क्षायामिति ।

अविवेको नाम अज्ञानम् । ततो जातं मिथ्याज्ञानम् । तदुभयम् एकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् । तेन अहं नाशयामि, इत्युक्तम् ।