श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विस्तरेणात्मनो योगं विभूतिं जनार्दन
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
विस्तरेण आत्मनः योगं योगैश्वर्यशक्तिविशेषं विभूतिं विस्तरं ध्येयपदार्थानां हे जनार्दन, अर्दतेः गतिकर्मणः रूपम् , असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमयितृत्वात् जनार्दनः अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनं सर्वैः जनैः याच्यते इति वाभूयः पूर्वम् उक्तमपि कथय ; तृप्तिः परितोषः हि यस्मात् नास्ति मे मम शृण्वतः त्वन्मुखनिःसृतवाक्यामृतम् ॥ १८ ॥

प्रकृतं प्रशनं उपसंहरति -

विस्तरेणेति ।

अर्दतेः गतिकर्मणः जनार्दनेति रूपम् , तत् व्युत्पादयति -

असुराणाम् इति ।

प्रकारान्तरेण शब्दार्थं व्युत्पादयति -

अभ्युदयेति ।

ननु पूर्वमेव सप्तमे नवमे च विभूतिः ऐश्वर्यञ्च ईश्वरस्य दर्शितम् , तत्किमिति श्रोतुं इष्यते तत्राह -

भूय इति ।

अमृतम् - अमृतप्रख्यमित्यर्थः

॥ १८ ॥