श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्
केषु केषु भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्तयन्केषु केषु भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन् मया ॥ १७ ॥

किमर्थं विभूतीः श्रोतुं इच्छसि इत्याशङ्क्य, ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति -

कथमिति ।

योगः नाम ऐश्वर्यं तत् अस्य अस्तीति योगो हे योगिन् , अहं स्थविष्टमातिः त्वां केन प्रकारेण सततं अनुसन्दधानः विशुद्धबुद्धिर्भूत्वा निरूपाधिकं त्वां विजानीयां इति प्रश्नः ।

प्रश्नानन्तरं प्रस्तौति -

केषु केषु इति ।

चेतनाचेतनभेदात् उपाधिबहुत्वाच्च बहुवचनम्

॥ १७ ॥