श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
वक्तुं कथयितुम् अर्हसि अशेषेणदिव्याः हि आत्मविभूतयःआत्मनो विभूतयो याः ताः वक्तुम् अर्हसियाभिः विभूतिभिः आत्मनो माहात्म्यविस्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि ॥ १६ ॥

यस्मात् अस्मादृशां अगोचरः तव आत्मा जिज्ञासितश्च, तस्मात् त्वयैव तद्रूपं वक्तव्यं इत्याह -

वक्तुमिति ।

दिव्यत्वं अप्राकृतत्वम् । सम्प्रति अन्वयं अन्वाचष्टे -

आत्मन इति ।

वक्तव्याः विभूतीः विशिनष्टि -

याभिरिति ।

यद्द्वारा लोकान् पूरयित्वा वर्तसे ताः विभूतीः अशेषेण वक्तुं अर्हसि इत्यर्थः

॥ १६ ॥