आत्मानं निरुपाधिकं रूपम् । न च तव सोपाधिकमपि रूपं अन्यस्य गोचरे तिष्ठति इत्याह -
निरतिशयेति ।
पुरुषश्चासौ उत्तमश्च इति क्षराक्षरातीतपूर्णचैतन्यरूपत्वम् सम्बोधनेन बोध्यते ।
सर्वप्रकृतित्वम् सर्वकर्तृत्वञ्च कथयति -
भूतानि इति ।
सर्वेश्वरत्वं आह -
भूतानाम् इति ।
उक्तं ते सोपाधिकं रूपं देवादीनाम् आराध्यताम् अधिगच्छति इत्याह -
देवेति ।
जगतः सर्वस्य स्वामित्वेन पालयितृत्वम् आह -
जगदिति
॥ १५ ॥