प्रष्टारं विस्रम्भयितुं भगवान् उक्तवान् इत्याह -
श्री भगवानिति ।
हन्त इति अनुमतिं व्यावर्त्य जिज्ञासावच्छिनं कालं दर्शयति-
इदानीम् इति ।
दिवि भवत्वम् - अप्राकृतत्वं - अस्मदगोचरत्वम् ।
वाक्यान्वयं द्योतयति -
यास्ता इति ।
सर्वविभूतीनां वक्तव्यत्वप्राप्तौ उक्तम् -
यत्रेति ।
किमिति अनवशेषतः विभूतयः न उच्यन्ते तत्राह -
अशेषतस्त्विति ।
तत्र हेतुः यतः इति
॥ १९ ॥