आशेरते अस्मिन् विद्याकर्मपूर्वप्रज्ञा इति आशयः - हृदयम् , सर्वेषां भूतानां हृदये अन्तःस्थितो यः प्रत्यगात्मा सः अहमेव इति वाक्यार्थम् आह -
सर्वेषाम् इति ।
यस्तु मन्दो मध्यमो वा परमात्मानम् आत्मत्वेन ध्यातुं नालम् , तं प्रति आह -
तदशक्तेनेति ।
वक्ष्यमाणादित्यादिषु परस्य न ध्येयत्वम् अन्यदेव कारणं किञ्चित् तत्र तत्र ध्येयम् इत्याशङ्क्य आह -
यस्मात् इति ।
सर्वकारणत्वेन सर्वज्ञत्वेन सर्वेश्वरत्वेन च परस्य ध्येयत्वम् अत्र ईप्सितम् , नान्यस्य कस्यचित् कारणस्य आदित्यादिषु ध्येयता, इत्यर्थः
॥ २० ॥