श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र प्रथममेव तावत् शृणु
तत्र प्रथममेव तावत् शृणु

विभूतिप्रदर्शने प्रस्तुते सति आदावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रोतुः अर्जुनस्य मनस्समाधानार्थं यतते -

तत्रेति ।

सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चात् वक्ष्यमाणं श्रोतुं चित्तसमाधानं कर्तव्यम् एव, इत्याह -

तावदिति ।