वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
वेदानां मध्ये सामवेदः अस्मि । देवानां रुद्रादित्यादीनां वासवः इन्द्रः अस्मि । इन्द्रियाणां एकादशानां चक्षुरादीनां मनश्च अस्मि सङ्कल्पविकल्पात्मकं मनश्चास्मि । भूतानाम् अस्मि चेतना कार्यकरणसङ्घाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना ॥ २२ ॥