श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥
आयुधानाम् अहं वज्रं दधीच्यस्थिसम्भवम्धेनूनां दोग्ध्रीणाम् अस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक्प्रजनः प्रजनयिता अस्मि कन्दर्पः कामः सर्पाणां सर्पभेदानाम् अस्मि वासुकिः सर्पराजः ॥ २८ ॥

प्रजनयतीति व्युत्पत्तिम् आश्रित्य आह -

प्रजनयितेति ।

सर्पा नागाश्च जातिभेदात् भिद्यन्ते

॥ २८, २९, ३०, ३१ ॥