अहमादिश्च इति आदौ उक्तमेव पुनः इह उच्यते । तथा च न पुनरुक्तिः इत्याशङ्क्य, आह -
भूतानां इति ।
सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते ।
अध्यात्मविद्येति ।
आत्मनि अन्तःकरणपरिणतिः अविद्यानिवर्तिका गृहीता ।
प्रवदतां सम्बन्धो वादः - वीतरागकथा तत्त्वनिर्णयावसाना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठी इत्याह -
प्रवक्तृ इति
॥ ३२ ॥