द्यूतं छलयतामस्मि
तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि
सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
द्यूतम् अक्षदेवनादिलक्षणं छलयतां छलस्य कर्तॄणाम् अस्मि । तेजस्विनां तेजः अहम् । जयः अस्मि जेतॄणाम् , व्यवसायः अस्मि व्यवसायिनाम् , सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम् ॥ ३६ ॥