द्यूतं उक्तलक्षणम् सर्वस्वापहारकारणम् अन्यायापदेशेन पराभिप्रेतम् निघ्नताम् , स्वाभिप्रेतं वा सम्पादयतां इत्याह -
छलस्येति ।
तेजः अप्रतिहताज्ञा, उत्कर्षः जयः, व्यवसायः फलहेतुः उद्यमः, धर्मज्ञानवैराग्यादि सत्त्वकार्यं सत्त्वम्
॥ ३६ ॥