श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दण्डो दमयतामस्मि
नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां
ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
दण्डः दमयतां दमयितॄणाम् अस्मि अदान्तानां दमनकारणम्नीतिः अस्मि जिगीषतां जेतुमिच्छताम्मौनं चैव अस्मि गुह्यानां गोप्यानाम्ज्ञानं ज्ञानवताम् अहम् ॥ ३८ ॥

अदान्तान् उत्पथान् पथि प्रवर्तयतां दण्डः अहं उत्पथप्रवृत्तौ निग्रहे हेतुः इत्यर्थः । नीतिः न्यायः धर्मस्य जयोपायस्य प्रकाशकः । मौनं वाचं यमत्वम् उत्तमा वा चतुर्थाश्रमवृत्तिः । श्रवणादिद्वारा परिपक्वसमाधिजन्यं सम्यक् ज्ञानं ज्ञानम्

॥ ३८ ॥