श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वृष्णीनां वासुदेवोऽस्मि
पाण्डवानां धनञ्जयः
मुनीनामप्यहं व्यासः
कवीनामुशना कविः ॥ ३७ ॥
त्वमेवमुनीनां मननशीलानां सर्वपदार्थज्ञानिनाम् अपि अहं व्यासः, कवीनां क्रान्तदर्शिनाम् उशना कविः अस्मि ॥ ३७ ॥
वृष्णीनां वासुदेवोऽस्मि
पाण्डवानां धनञ्जयः
मुनीनामप्यहं व्यासः
कवीनामुशना कविः ॥ ३७ ॥
त्वमेवमुनीनां मननशीलानां सर्वपदार्थज्ञानिनाम् अपि अहं व्यासः, कवीनां क्रान्तदर्शिनाम् उशना कविः अस्मि ॥ ३७ ॥

उशना - शुक्रः, कविशब्दोेऽत्र योगिकः न रूढः पौनरुक्त्यात्

॥ ३७ ॥