श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्यूतं छलयतामस्मि
तेजस्तेजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि
सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
द्यूतम् अक्षदेवनादिलक्षणं छलयतां छलस्य कर्तॄणाम् अस्मितेजस्विनां तेजः अहम्जयः अस्मि जेतॄणाम् , व्यवसायः अस्मि व्यवसायिनाम् , सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम् ॥ ३६ ॥

द्यूतं उक्तलक्षणम् सर्वस्वापहारकारणम् अन्यायापदेशेन पराभिप्रेतम् निघ्नताम् , स्वाभिप्रेतं वा सम्पादयतां इत्याह -

छलस्येति ।

तेजः अप्रतिहताज्ञा, उत्कर्षः जयः, व्यवसायः फलहेतुः उद्यमः, धर्मज्ञानवैराग्यादि सत्त्वकार्यं सत्त्वम्

॥ ३६ ॥