वेदानां सामवेदोऽस्मि इत्युक्तम् । तत्रावान्तरविशेषमाह-
बृहदिति ।
छन्दसां मध्ये गायत्री नाम यच्छन्दः तदहम् इति अयुक्तम् , छन्दसां ऋग्भ्यः अतिरेकेण स्वरूपासम्भावत् । इत्याशह्क्य, आह -
गायत्र्यादि इति ।
द्विजातेः द्वितीयजन्मजननीत्वात् इत्यर्थः ।
मार्गशीर्षः - मृगशीर्षेण युक्ता पौर्णमासी अस्मिन् इति मार्गशीर्षः मासः सोऽहम् पक्वसस्याढ्यत्वात् इत्याह -
मासानामिति ।
वसन्तः रमणीयत्वादिति शेषः ।
॥ ३५ ॥