श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥
मृत्युः द्विविधः धनादिहरः प्राणहरश्च ; तत्र यः प्राणहरः, सर्वहरः उच्यते ; सः अहम् इत्यर्थःअथवा, परः ईश्वरः प्रलये सर्वहरणात् सर्वहरः, सः अहम्उद्भवः उत्कर्षः अभ्युदयः तत्प्राप्तिहेतुश्च अहम्केषाम् ? भविष्यतां भाविकल्याणानाम् , उत्कर्षप्राप्तियोग्यानाम् इत्यर्थःकीर्तिः श्रीः वाक् नारीणां स्मृतिः मेधा धृतिः क्षमा इत्येताः उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभासमात्रसम्बन्धेनापि लोकः कृतार्थमात्मानं मन्यते ॥ ३४ ॥

सर्वहरशब्दस्य मुख्यं अर्थान्तरं आह -

अथवेति ।

भाविकल्याणानां इत्युक्तमेवस्पष्टयति -

उत्कर्षेति ।

कीर्तिः - धार्मिकत्वनिमित्ता ख्यातिः । श्रीः - लक्ष्मीः, कान्तिः - शोभा । वाक् - वाणी सर्वस्य प्रकाशिका, स्मृतिः - चिरानुभूतस्मरणशक्तिः, मेधा - ग्रन्थधारणशक्तिः, धृतिः - धैर्यम् , क्षमा - मानापमानयोः अविकृतचित्तता - स्त्रीषु कीर्त्यादीनां उत्तमत्वं उपपादयति -

यासामिति

॥ ३४ ॥