श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥
सर्गाणां सृष्टीनाम् आदिः अन्तश्च मध्यं चैव अहम् उत्पत्तिस्थितिलयाः अहम् अर्जुनभूतानां जीवाधिष्ठितानामेव आदिः अन्तश्च इत्याद्युक्तम् उपक्रमे, इह तु सर्वस्यैव सर्गमात्रस्य इति विशेषःअध्यात्मविद्या विद्यानां मोक्षार्थत्वात् प्रधानमस्मिवादः अर्थनिर्णयहेतुत्वात् प्रवदतां प्रधानम् , अतः सः अहम् अस्मिप्रवत्त्कृद्वारेण वदनभेदानामेव वादजल्पवितण्डानाम् इह ग्रहणं प्रवदताम् इति ॥ ३२ ॥

अहमादिश्च इति आदौ उक्तमेव पुनः इह उच्यते । तथा च न पुनरुक्तिः इत्याशङ्क्य, आह -

भूतानां इति ।

सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते ।

अध्यात्मविद्येति ।

आत्मनि अन्तःकरणपरिणतिः अविद्यानिवर्तिका गृहीता ।

प्रवदतां सम्बन्धो वादः - वीतरागकथा तत्त्वनिर्णयावसाना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठी इत्याह -

प्रवक्तृ इति

॥ ३२ ॥