आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥
आयुधानाम् अहं वज्रं दधीच्यस्थिसम्भवम् । धेनूनां दोग्ध्रीणाम् अस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक् । प्रजनः प्रजनयिता अस्मि कन्दर्पः कामः सर्पाणां सर्पभेदानाम् अस्मि वासुकिः सर्पराजः ॥ २८ ॥