श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अश्वत्थः सर्ववृक्षाणां देवर्षीणां नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥
अश्वत्थः सर्ववृक्षाणाम् , देवर्षीणां नारदः देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्रदर्शित्वात्ते देवर्षयः, तेषां नारदः अस्मिगन्धर्वाणां चित्ररथः नाम गन्धर्वः अस्मिसिद्धानां जन्मनैव धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः ॥ २६ ॥

“ सर्ववृक्षाणाम्  " इत्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते

॥ २६, २७ ॥