श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥
महर्षीणां भृगुः अहम्गिरां वाचां पदलक्षणानाम् एकम् अक्षरम् ओङ्कारः अस्मियज्ञानां जपयज्ञः अस्मि, स्थावराणां स्थितिमतां हिमालयः ॥ २५ ॥

एकम् इति । ओङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वम् उच्यते । जपयज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्यम् उपेत्य आह -

यज्ञानामिति ।

शिखरवताम् - उच्छ्रितानां पर्वतानां मध्ये, मेरुः अहं इत्युक्तेऽपि, स्थितिशीलानां तेषामेव हिमवान् - पर्वतराजोऽस्मि, इति अर्थभेदं गृहीत्वा आह -

स्थितिमतामिति

॥ २५ ॥