श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यच्चापि सर्वभूतानां बीजं तदहमर्जुन
तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
यच्चापि सर्वभूतानां बीजं प्ररोहकारणम् , तत् अहम् अर्जुनप्रकरणोपसंहारार्थं विभूतिसङ्क्षेपमाह तत् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत्मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात्अतः मदात्मकं सर्वमित्यर्थः ॥ ३९ ॥

जाड्यमात्रप्रतिबिम्बितं चैतन्यं बीजम् । किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवतीति तत्राह -

मयेति ।

तस्यापि स्वरूपेण सत्त्वमाशङ्क्य उक्तम् -

शून्यं हीति ।

आत्मनः अपकर्षात् इत्यर्थः । मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धेः । इति अतश्शब्दार्थः

॥ ३९ ॥