जाड्यमात्रप्रतिबिम्बितं चैतन्यं बीजम् । किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवतीति तत्राह -
मयेति ।
तस्यापि स्वरूपेण सत्त्वमाशङ्क्य उक्तम् -
शून्यं हीति ।
आत्मनः अपकर्षात् इत्यर्थः । मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धेः । इति अतश्शब्दार्थः
॥ ३९ ॥