नान्तोऽस्ति मम दिव्यानां
विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो
विभूतेर्विस्तरो मया ॥ ४० ॥
न अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हि ईश्वरस्य सर्वात्मनः दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥