तेन तेन आत्मना भगवदनुसन्धानार्थम् उक्ताः विभूतीः अनुवदति-
भगवत इति ।
परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेत ज्ञेयत्वेन च उक्तम् , इत्यर्थः ।
सोपाधिकम् ऐश्वरं रूपम् अशेषजगदात्मकं विश्वरूपाख्यम् अधिकृत्य, अध्यायान्तरम् अवतारयन् अनन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तपति-
तत्र चेति ।
यदेतत् अशेषप्रपञ्चात्मकम् अखिलस्य एतस्य जगतः कारणं सर्वज्ञं सर्वैश्वर्यवद्रूपम् उक्तम् , तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषः आदौ पृष्टवान् इत्याह-
श्रुत्वा इति ।
मयि करुणां निमित्तीकृत्य उपकारः - अनुग्रहः । तदर्थम् इति वचसो विशेषणम् । निरतिशयत्वं परमपुरुषार्थसाधनत्वम् । अशोच्यान् इत्यादि त्वम्पदार्थप्रधानवाक्यम् । मोहस्यायमिति आत्मसाक्षिकत्वं दर्शयति । अविवेकबुद्धिः - अज्ञानविपर्यासात्मिका
॥ १ ॥