सप्तमादारभ्य तत्पदार्थनिर्णयार्थमपि भगवदुक्तं वचः मया श्रुतम् , इत्याह-
किञ्चेति ।
त्वत्तः भूतानाम् उत्पत्तिप्रलयौ, त्वत्तः श्रुतौ इत्याभ्यां सम्बध्यते, महात्मनः तव भावः - माहात्म्यम् । पारमार्थिकं सोपाधिकं वा सर्वात्मत्वादिरूपं श्रुतम् , इति परिणम्य अनुवृत्तिं द्योतयितुम् , अपि च इत्युक्तम्
॥ २ ॥