त्वदुक्ते अर्थे विश्वासाभावात् न तस्य दिदृक्षा । किन्तु कृतार्थीबुभूषया इत्याह-
एवमेतदिति ।
येन प्रकारेण सोपाधिकेन निरुपाधिकेन च इत्यर्थः ।
यदि मम आप्तत्वं निश्चित्य मद्वाक्यं ते मानं तर्हि किमिति मदुक्त दिदृक्षते कृतार्थीबुभूषया इत्युक्तं मत्वा आह-
तथापीति ।
चतुर्भुजादिरूपनिवृत्त्यर्थमाह-
एेश्वरमिति ।
तत् व्याचष्टे ज्ञानेत्यादिना ॥ ३ ॥