श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
एवमेतत् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वरतथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम ॥ ३ ॥

त्वदुक्ते अर्थे विश्वासाभावात् न तस्य दिदृक्षा । किन्तु कृतार्थीबुभूषया इत्याह-

एवमेतदिति ।

येन प्रकारेण सोपाधिकेन निरुपाधिकेन च इत्यर्थः ।

यदि मम आप्तत्वं निश्चित्य मद्वाक्यं ते मानं तर्हि किमिति मदुक्त दिदृक्षते कृतार्थीबुभूषया इत्युक्तं मत्वा आह-

तथापीति ।

चतुर्भुजादिरूपनिवृत्त्यर्थमाह-

एेश्वरमिति ।

तत् व्याचष्टे ज्ञानेत्यादिना ॥ ३ ॥