श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् शक्यं द्रष्टुम् इति प्रभो, स्वामिन् , योगेश्वर योगिनो योगाः, तेषां ईश्वरः योगेश्वरः, हे योगेश्वरयस्मात् अहम् अतीव अर्थी द्रष्टुम् , ततः तस्मात् मे मदर्थं दर्शय त्वम् आत्मानम् अव्ययम् ॥ ४ ॥

द्रष्टुं अयोग्ये कुतो दिदृक्षा इत्याशङ्क्य आह-

मन्यसे इति ।

प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेभ्यः इति प्रभुः ।

लक्षणया योगशब्दार्थमाह-

योगिन इति ।

ततः इत्यादि व्याचष्टे-

यस्मादिति

॥ ४ ॥