दिव्यानि रूपाणि पश्य इत्युक्तम् । तान्येव लेशतः अनुक्रामति-
पश्यादित्यान् इति ।
तान् मरुतः तथा पश्य इति सम्बन्धः ।
नानाविधानि इत्युक्तम् , तदेव स्फुटयति-
बहूनि इति ।
अदृष्टपूर्वाणि - पूर्व अदृष्टानि । नानावर्णाकृतीनि इत्युक्तम् व्यनक्ति-
आश्चर्याणि इति
॥ ६ ॥