न केवलं आदित्यवस्वाद्येव मद्रूपं त्वया द्रष्टुं शक्यम् , किन्तु समस्तं जगदपि मद्देहस्थं द्र्ष्टुं इच्छसि इत्याह -
नेत्यादिना ।
सप्तमीद्वयं मिथः सम्बध्यते । समासान्तर्गतापि सप्तमी -तत्रैवान्विता ।यदि इच्छसि तर्हि इहैव पश्य इति सम्बन्धः
॥ ७ ॥