श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥
दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासःयदि वा स्यात् , ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः ॥ १२ ॥

सा कथञ्चित् सदृशी सम्भवति, न तु भवत्येव, इति विवक्षित्वा आह-

यदि वेति

॥ १२ ॥