ननु प्रकृष्टस्य भगवतो रूपस्य दीप्तिः अस्ति ? न वा ? न चेत् काष्ठादिसाम्यम् ; यदि अस्ति, कीदृशी सा ? इति आशङ्क्य, आह-
या पुनरिति ।
सा यदि स्यात् , तद्भासः सदृशी सा, इति योजना । असम्भाविताभ्युपगमार्थो यदिशब्दः । स्याच्छब्दो निश्चयार्थः ।