भूतविशेषसङ्घेषु देवानाम् अन्तर्भावेऽपि पृथक् करणम् उत्कर्षात् । ब्रह्मणः सर्वदेवतात्मत्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वात् , इति मत्वा आह-
किञ्चेति ।
ऋषीणाम् उरगाणां च किञ्चित् वैषम्यात् पृथक्त्वम् । दिव्यान् इति उभयेषां विशेषणम्
॥ १५ ॥