श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान् , तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घाः भूतविशेषसङ्घाः तान् , किञ्चब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः, ऋषींश्च वसिष्ठादीन् सर्वान् , उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥

भूतविशेषसङ्घेषु देवानाम् अन्तर्भावेऽपि पृथक् करणम् उत्कर्षात् । ब्रह्मणः सर्वदेवतात्मत्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वात् , इति मत्वा आह-

किञ्चेति ।

ऋषीणाम् उरगाणां च किञ्चित् वैषम्यात् पृथक्त्वम् । दिव्यान् इति उभयेषां विशेषणम्

॥ १५ ॥