श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ अधुना पुरा यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति अर्जुनस्य यः संशयः आसीत् , तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान्तं पश्यन् आहकिञ्च
अथ अधुना पुरा यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति अर्जुनस्य यः संशयः आसीत् , तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान्तं पश्यन् आहकिञ्च

अमी हीत्यादिसमनन्तरग्रन्थस्य तात्पर्यम् आह-

अथेति ।

तं भगवन्तं पाण्डवजयम् ऐकान्तिकं दर्शयन्तं पश्यन् अर्जुनो ब्रवीति, इत्याह-

तं पश्यन् इति ।

विश्वरूपस्यैव प्रपञ्चनार्थम् अनन्तरग्रन्थजातम् , इति दर्शयति-

किञ्चेति ।