श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अमी हि त्वा सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
अथ अधुना पुरा ‘यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति अर्जुनस्य यः संशयः आसीत् , तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान् । तं पश्यन् आह — किञ्च —

अमी हीत्यादिसमनन्तरग्रन्थस्य तात्पर्यम् आह-

अथेति ।

तं भगवन्तं पाण्डवजयम् ऐकान्तिकं दर्शयन्तं पश्यन् अर्जुनो ब्रवीति, इत्याह-

तं पश्यन् इति ।

विश्वरूपस्यैव प्रपञ्चनार्थम् अनन्तरग्रन्थजातम् , इति दर्शयति-

किञ्चेति ।