श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रुद्रादित्या वसवो ये साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
किञ्चान्यत् —

दृश्यमानस्य भगवद्रूपस्य विस्मयकरत्वे हेत्वन्तरम् आह-

किञ्चेति ।

ते एव - उक्ताः रुद्रादयः सर्वे विस्मयम् आपन्नाः त्वां पश्यन्ति - इति सम्बन्धः

॥ २२ ॥