श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम्
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
यस्मात् —

लोकत्रयं प्रव्यथितम् , इत्युक्तम् उपसंहरति-

यस्मादिति ।

ईदृशं यस्मात् ते रूपम् , तस्मात् तं दृष्ट्वा - इति योजना ।