श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
तस्मात् त्वम् उत्तिष्ठभीष्मप्रभृतयः अतिरथाः अजेयाः देवैरपि, अर्जुनेन जिताःइति यशः लभस्व ; केवलं पुण्यैः हि तत् प्राप्यतेजित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम्मया एव एते निहताः निश्चयेन हताः प्राणैः वियोजिताः पूर्वमेवनिमित्तमात्रं भव त्वं हे सव्यसाचिन् , सव्येन वामेनापि हस्तेन शराणां क्षेप्ता सव्यसाची इति उच्यते अर्जुनः ॥ ३३ ॥

यशोलाभम् अभिनयति-

भीष्मेति ।

किं तेन अपुमर्थेन ? इति आशङ्क्य आह-

पुण्यैरिति ।

राज्यभोेगे अपेक्षिते, किम् अनपेक्षितेन ? इत्याशङ्क्य आह-

जित्वेति ।

भीष्मादिषु अतिरथेषु सत्सु, कुतो जयाशङ्का ? इति आशङ्क्य आह-

मयैवैते इति ।

तर्हि मृतमारणार्थं न मे प्रवृत्तिः, तत्र आह-

निमित्तेति ।

सव्यसाचीपदं विभजते-

वामेनेति

॥ ३३ ॥