द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
द्रोणं च, येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान् व्यपदिशति भगवान् , मया हतानिति । तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम् । द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठः । भीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् , न च पराजितः । तथा जयद्रथः, यस्य पिता तपः चरति ‘मम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यति’ इति । कर्णोऽपि वासवदत्तया शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्तमात्रेण । मा व्यथिष्ठाः तेभ्यः भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥ ३४ ॥