श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
अत्र अवसरे सञ्जयवचनं साभिप्रायम्कथम् ? द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु, निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् सन्धिं करिष्यति, ततः शान्तिः उभयेषां भविष्यति इतितदपि अश्रौषीत् धृतराष्ट्रः भवितव्यवशात् ॥ ३५ ॥

विश्वरूपदर्शनदशायाम् अर्जुनस्य भगवता संवादवचनं किमिति सञ्जयो राज्ञे व्यजिज्ञपत् इति आशङ्क्य, तदुक्तेः तात्पर्यम् आह-

अत्रेति ।

तमेव अभिप्रायं प्रश्नद्वारा विशदयति-

कथम् इत्यादिना ।

तर्हि सञ्जयवचनं श्रुत्वा, किमिति राजा सन्धिं न कारयामास ? इति आह-

तदपीति

॥ ३५ ॥