अर्जुन उवाच —
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
स्थाने युक्तम् । किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् , इत्यर्थः । अथवा विषयविशेषणं स्थाने इति । युक्तः हर्षादिविषयः भगवान् , यतः ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इति । तथा अनुरज्यते अनुरागं च उपैति ; तच्च विषये इति व्याख्येयम् । किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसङ्घाः सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने ॥ ३६ ॥