श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसह्य यत् उक्तं हे कृष्ण हे यादव हे सखेति अजानता अज्ञानिना मूढेन ; किम् अजानता इति आहमहिमानं महात्म्यं तव इदम् ईश्वरस्य विश्वरूपम् । ‘तव इदं महिमानम् अजानताइति वैयधिकरण्येन सम्बन्धः । ‘तवेमम्इति पाठः यदि अस्ति, तदा सामानाधिकरण्यमेवमया प्रमादात् विक्षिप्तचित्ततया, प्रणयेन वापि, प्रणयो नाम स्नेहनिमित्तः विस्रम्भः तेनापि कारणेन यत् उक्तवान् अस्मि ॥ ४१ ॥

इदंशब्दार्थम् आह-

विश्वरूपमिति ।

न हि इदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यम् , लिङ्गव्यत्ययात् , इत्याह-

तवेति ।

पाठान्तरसम्भावनायां सामानाधिकरण्योपपत्तिम् आह-

तवेत्यादिना ।

‘यदुक्तवान् अस्मि, तद् अहं क्षामये त्वाम् ‘ इति सम्बन्धः

॥ ४१ ॥