यत् अयुक्तम् उक्तम् , तत् क्षन्तव्यम् इत्येव न, किन्तु यत् परिहासार्थं क्रीडादिषु त्वयि तिरस्करणं कृतम् , तदपि सोढव्यम् , इत्याह-
यच्चेति ।
विहरणम् - क्रीडा, व्यायामोवा । शयनम् - तल्पादिकम् । आसनम् - आस्थायिका, सिंहासनादेः उपलक्षणम् । एतेषु विषयभूतेषु, इति यावत् ।
एकशब्दो रहसि स्थितम् एकाकिनं कथयति, इत्याह-
परोक्षः सन् इति ।
प्रत्यक्षम् , परोक्षं वा तदसत्करणं - परिभवनं यथा स्यात् तथा, यत् मया त्वम् असत्कृतोऽसि, तत् सर्वमिति योजनम् अङ्गीकृत्य, आह-
तच्छब्द इति ।
क्षमा कारयितव्या, इत्यत्र अपरिमितत्वं हेतुम् आह-
अप्रमेयमिति
॥ ४२ ॥